संस्कृतस्य महत्त्वम्।

Arise International School
संस्कृतस्य महत्त्वम्।

14 Aug 2024

विश्वस्य उपलब्धासु भाषासु संस्कृतभाषा प्राचीनतमा भाषा अस्ति । भाषेयं अनेकाषां भाषाणां जननी मता। प्राचीनयोः ज्ञानविज्ञानयोः निधिः अस्यां सुरक्षितः। संस्कृतस्य महत्त्वविषये केनापि कथितम् - 'भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृति: तथा'।

इयं भाषा अतीव वैज्ञानिकी। केचन कथयन्ति यत् संस्कृतम् एव सङ्गणकस्य कृते सर्वोत्तमा भाषा। अस्याः वाङ्मयं वेदैः, पुराणैः, नीतिशास्त्रैः चिकित्साशास्त्रादिभिश्च समृद्धमस्ति। कालिदासादीनां विश्वकवीनां काव्यसौन्दर्यम् अनुपमम्। कौटिल्यरचितम् अर्थशास्त्रं जगति प्रसिद्धमस्ति। गणितशास्त्रे शून्यस्य प्रतिपादनं सर्वप्रथमम् आर्यभट- अकरोत्। चिकित्साशास्त्रे चरकसुश्रुतयोः योगदानं विश्वप्रसिद्धम्। संस्कृते यानि अन्यानि शास्त्राणि विद्यन्ते तेषु वास्तुशास्त्रं, रसायनशास्त्रं, खगोलविज्ञानं, ज्योतिषशास्त्र, विमानशास्त्रम् इत्यादीनि उल्लेखनीयानि।

संस्कृते विद्यमानाः सूक्तयः अभ्युदयाय प्रेरयन्ति, यथा - सत्यमेव जयते, वसुधैव कुटुम्बकम्, विद्ययाऽमृतमश्नुते, योगः कर्मसु कौशलम् इत्यादयः।  सर्वभूतेषु आत्मवत् व्यवहारं कर्तु संस्कृतभाषा सम्यक् शिक्षयति।

केचन कथयन्ति यत् संस्कृतभाषायां केवलं धार्मिकं साहित्यम् वर्तते - एषा धारणा समीचीना नास्ति । संस्कृतग्रन्थेषु मानवजीवनाय विविधाः विषयाः समाविष्टाः सन्ति। महापुरुषाणां

मतिः, उत्तमजनानां धृतिः सामान्यजनानां जीवनपद्धतिः च वर्णिताः सन्ति । अतः अस्माभिः संस्कृतम् अवश्यम् एव पठनीयम्। तेन मनुष्यस्य समाजस्य च परिष्कारः भवेत्।

 उक्तञ्च- 
 *अमृतं संस्कृतं मित्र !
सरसं सरलं वचः ।
भाषासु महनीयं यद् ज्ञानविज्ञानपोषकम् ॥